उत्ति॑ष्ठे॒तःकिमि॒च्छन्ती॒दमागा॑ अ॒हं त्वे॑डे अभि॒भूः स्वाद्गृ॒हात्। शू॑न्यै॒षी नि॑रृते॒याज॒गन्धोत्ति॑ष्ठाराते॒ प्र प॑त॒ मेह रं॑स्थाः ॥
उत् । तिष्ठ । इत: । किम् । इच्छन्ती । इदम् । आ । अगा: । अहम् । त्वा । ईडे । अभिऽभू: । स्वात् । गृहात् । शून्यऽएषी । नि:ऽऋते । या । आऽजगन्ध । उत् । तिष्ठ । अराते । प्र । पत । मा । इह । रंस्था: ॥१.१९॥
पण्डित क्षेमकरणदास त्रिवेदी
गृहआश्रम का उपदेश।
