आस्यै॑ब्राह्म॒णाः स्नप॑नीर्हर॒न्त्ववी॑रघ्नी॒रुद॑ज॒न्त्वापः॑। अ॑र्य॒म्णो अ॒ग्निंपर्ये॑तु पूष॒न्प्रती॑क्षन्ते॒ श्वशु॑रो दे॒वर॑श्च ॥
पद पाठ
आ । अस्यै । ब्राह्मणा । स्नपनी: । हरन्तु । अवीरऽघ्नी: । उत् । अजन्तु । आप: । अर्यम्ण: । अग्निम् । परि । एतु । पूषन् । प्रति । ईक्षन्ते । श्वशुर: । देवर: । च ॥१.३९॥
अथर्ववेद » काण्ड:14» सूक्त:1» पर्यायः:0» मन्त्र:39
71 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
विवाह संस्कार का उपदेश।
पदार्थान्वयभाषाः - (अस्यै) इस [वधू] केलिये (ब्राह्मणाः) ब्राह्मण [विद्वान् लोग] (स्नपनीः) शुद्धिकारक सामग्रियों को (आ हरन्तु) लावें, (अवीरघ्नीः) वीरों को हितकारी (आपः) प्रजाएँ (उत्) उत्तमतासे (अजन्तु) प्राप्त होवें। (पूषन्) हे पुष्टिकारक [विद्वान् !] (अर्यम्णः)श्रेष्ठों के मान करनेवाले [पति] की (अग्निम्) अग्नि की [प्रत्येक पति-पत्नी] (परि एतु) परिक्रमा करे, (श्वशुरः) ससुर [पति का पिता] (च) और (देवरः) देवर लोग [पति के छोटे-बड़े भ्राता] (प्रति ईक्षन्ते) बाट देखते हैं ॥३९॥
भावार्थभाषाः - वर के घर पहुँचकरवधू-वर विद्वानों की आज्ञानुसार शुद्ध जल आदि से स्नान करके अग्निहोत्रादि करकेयज्ञकुण्ड की परिक्रमा करें और सब कुटुम्बी लोग सन्मान से स्वागत करें ॥३९॥
टिप्पणी: ३९−(अस्यै) वध्वै (ब्राह्मणाः) विद्वांसः (स्नपनीः) शोधयित्रीः सामग्रीः (आहरन्तु) प्रापयन्तु (अवीरघ्नीः) वीराणां हितकरीः (उत्) उत्तमतया (अजन्तु)गच्छन्तु प्राप्नुवन्तु (आपः) म० ३७। प्रजाः (अर्यम्णः) श्रेष्ठमानकरस्य पत्युः (अग्निम्) होमाग्निम् (पर्येतु) प्रत्येकं वधूश्च वरश्च गच्छतु (पूषन्) हे पोषकविद्वन् (प्रतीक्षन्ते) प्रतीक्षया पश्यन्ति (श्वशुरः) शावशेराप्तौ। उ० १।४४।शु+अशू आप्तौ व्याप्तौ-उरन्। शु आशु अश्यते प्राप्यते यः। दम्पत्योः पिता (देवरः) दिवेर्ऋ। उ० २।९९। दिवु क्रीडादिषु-ऋ प्रत्ययः। पत्युःकनिष्ठज्येष्ठभ्रातरः (च) ॥
