वांछित मन्त्र चुनें

शिं॒शु॒मारा॑ अजग॒राः पु॑री॒कया॑ ज॒षा मत्स्या॑ रज॒सा येभ्यो॒ अस्य॑सि। न ते॑ दू॒रं न प॑रि॒ष्ठास्ति॑ ते भव स॒द्यः सर्वा॒न्परि॑ पश्यसि॒ भूमिं॒ पूर्व॑स्माद्धं॒स्युत्त॑रस्मिन्समु॒द्रे ॥

मन्त्र उच्चारण
पद पाठ

शिंशुमारा: । अजगरा: । पुरीकथा: । जषा: । मत्स्या: । रजसा: । येभ्य: । अस्यसि । न । ते । दूरम् । न । परिऽस्था । अस्ति । ते । भव । सद्य: । सर्वान् । परि । पश्यसि । भूमिम् । पूर्वस्मात् । हंसि । उत्तरस्मिन् । समुद्रे ॥२.२५॥

अथर्ववेद » काण्ड:11» सूक्त:2» पर्यायः:0» मन्त्र:25


78 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मज्ञान से उन्नति का उपदेश।

पदार्थान्वयभाषाः - (अजगराः) अजगर [सर्पविशेष], (शिंशुमाराः) शिशुमार [सूसमार, जलजन्तु], (पुरीकयाः) पुरीकय [जलचर विशेष], (जषाः) जष [झष, मछली विशेष] और (रजसाः) जल में रहनेवाले (मत्स्याः) मच्छ हैं, (येभ्यः) जिन से (अस्यसि=अससि) तू प्रकाशमान है। (भव) हे भव ! [सुखोत्पादक परमेश्वर] (ते) तेरे लिये (दूरम्) कुछ दूर (न) नहीं है और (न) न (ते) तेरे लिये (परिष्ठा) रोक-टोक (अस्ति) है, और (सर्वान्) सबों को (सद्यः) तुरन्त ही (परि पश्यसि) तू देख-भाल लेता है, और (पूर्वस्मात्) पूर्वी [समुद्र] से (उत्तरस्मिन् समुद्रे) उत्तरी समुद्र में (भूमिम्) भूमि को (हंसि) तू पहुँचाता है ॥˜२५॥
भावार्थभाषाः - हे परमेश्वर ! इन सब बड़े-बड़े थलचर और जलचर जन्तुओं के देखने से तेरी अनन्त महिमा जान पड़ती है। तू सब स्थानों में विद्यमान रहकर क्षणभर में इधर के जगत् को उधर कर देता है ॥˜२५॥
टिप्पणी: २५−(शिंशुमाराः) अनुनासिकश्छान्दसः। शिशुमाराः। जलजन्तुविशेषाः (अजगराः) अज+गॄ निगरणे-अच्। अजेन अजनेन श्वासबलेन गिरन्ति ये ते। बृहत्सर्पाः (पुरीकयाः) कषिदूषीभ्यामीकन्। उ० ४।१६। पॄ पालनपूरणयोः-ईकन्+या प्रापणे-ड। शॄपॄभ्यां किच्च। उ० ४।२७। पुरीषमुदकनाम-निघ० १।१२। पुरीकं पुरीषं जलं यान्ति गच्छन्ति ये ते। जलचरविशेषाः (जषाः) जष झष हिंसायाम्-घ प्रत्ययः। झषाः। मीनभेदाः (मत्स्याः) जनिदाच्युसृवृमदि०। उ० ४।१०४। मदी हर्षे-स्य प्रत्ययः। जलजन्तुभेदाः। मीनाः (रजसाः) उदकं रज उच्यते-निरु० ४।१९। रजस्-अर्शआद्यच्। उदके भवाः। जलचराः। (येभ्यः) येषां सकाशात् (अस्यसि) अस दीप्तौ दिवादित्वं छान्दसम्। अससि दीप्यसे (न) निषेधे (ते) तव (दूरम्) विप्रकृष्टम् (परिष्ठा) परिवर्जनम् (अस्ति) (ते) (भव) हे सुखोत्पादक परमेश्वर (सद्यः) तत्क्षणम् (सर्वान्) पूर्वोक्तान्, समस्तान् (परि) सर्वतः (पश्यसि) अवलोकयसि (भूमिम्) भूलोकम् (पूर्वस्मात्) पूर्ववर्तिनः समुद्रात् (हंसि) हन हिंसागत्योः अन्तर्गतण्यर्थः। घातयसि। गमयसि (उत्तरस्मिन्) उत्तरदिग्वर्तिनि (समुद्रे) जलधौ ॥˜