म॑र्मा॒विधं॒ रोरु॑वतं सुप॒र्णैर॒दन्तु॑ दु॒श्चितं॑ मृदि॒तं शया॑नम्। य इ॒मां प्र॒तीची॒माहु॑तिम॒मित्रो॑ नो॒ युयु॑त्सति ॥
पद पाठ
मर्माविधम् । रोरुवतम् । सुऽपर्णै: । अदन्तु । दु:ऽचितम् । मृदितम् । शयानम् । य: । इमाम् । प्रतीचीम् । आऽहुतिम् । अमित्र: । न: । युयुत्सति ॥१२.२६॥
अथर्ववेद » काण्ड:11» सूक्त:10» पर्यायः:0» मन्त्र:26
81 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (सुपर्णैः=सुपर्णाः) शीघ्रगामी पक्षी [गिद्ध आदि] (मर्माविधम्) मर्मस्थानों में छिदे हुए, (रोरुवतम्) चिल्लाते हुए (मृदितम्) कुचले हुए, (शयानम्) पड़े हुए, (दुश्चितम्) उस दुष्ट विचारवाले को (अदन्तु) खावें। (यः) जो (अमित्रः) शत्रु (नः) हमारी (इमाम्) इस (प्रतीचीम्) प्रत्यक्ष प्राप्त हुई (आहुतिम्) आहुति [बलि वा भेंट] (युयुत्सति) झगड़ना चाहता है ॥२६॥
भावार्थभाषाः - जो मनुष्य प्रत्यक्ष सत्य धर्म के विरुद्ध आचरण करें, वे युद्धस्थल में वध किये जावें, जिससे अन्य दुष्ट दुराचार न करें ॥२६॥
टिप्पणी: २६−(मर्माविधम्) व्यध ताडने-कर्मणि क्विप्। ग्रहिज्यावयिव्यधि०। पा० ६।१।१६। इति सम्प्रसारणम्। नहिवृतिवृषिव्यधि०। पा० ६।३।११६। पूर्वपदस्य दीर्घः क्विप्रत्यये। मर्मसु विध्यमानम् (रोरुवतम्) रु शब्दे-यङ्लुकि-शतृ। रोरूयमाणम्। अत्यन्तं शब्दायमानम् (सुपर्णैः) सुपां सुपो भवन्ति। वा। पा० ७।१।३९। प्रथमास्थाने तृतीया। सुपर्णाः। शीघ्रगामिनः पक्षिणः। गृध्रादयः (अदन्तु) (दुश्चितम्) चिती संज्ञाने-क्विप्। दुष्टा चित् ज्ञानं यस्य तम्। दुष्टविचारयुक्तम् (मृदितम्) चूर्णीकृतम् (शयानम्) भूमौ वर्तमानम् (यः) (इमाम्) (प्रतीचीम्) अ० ३।२६।३। प्रति+अञ्चु गतिपूजनयोः-क्विन्, ङीप्। प्रत्यक्षमञ्चन्तीं गच्छन्तीम् (आहुतिम्) दानक्रियाम् (अमित्रः) शत्रुः (नः) अस्माकम् (युयुत्सति) योद्धुमिच्छति ॥
