सोम॑ राजन्त्सं॒ज्ञान॒मा व॑पैभ्यः॒ सुब्रा॑ह्मणा यत॒मे त्वो॑प॒सीदा॑न्। ऋषी॑नार्षे॒यांस्तप॒सोऽधि॑ जा॒तान्ब्र॑ह्मौद॒ने सु॒हवा॑ जोहवीमि ॥
सोम । राजन् । सम्ऽज्ञानम् । आ । वप । एभ्य: । सुऽब्राह्मणा: । यतमे । त्वा । उपऽसीदान् । ऋषीन् ।आर्षेयान् । तपस: । अधि । जातान् । ब्रह्मऽओदने । सुऽहवा । जोहवीमि ॥१.२६॥
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्मज्ञान से उन्नति का उपदेश।
