वांछित मन्त्र चुनें

परा॑क्ते॒ ज्योति॒रप॑थं ते अ॒र्वाग॒न्यत्रा॒स्मदय॑ना कृणुष्व। परे॑णेहि नव॒तिं ना॒व्या॒ अति॑ दु॒र्गाः स्रो॒त्या मा क्ष॑णिष्ठाः॒ परे॑हि ॥

मन्त्र उच्चारण
पद पाठ

पराक् । ते । ज्योति: । अपथम् । ते । अर्वाक् । अन्यत्र । अस्मत् । अयना । कृणुष्व । परेण । इहि । नवतिम् । नाव्या: । अति । दु:ऽगा: । स्रोत्या: । मा । क्षणिष्ठा: । परा । इहि ॥१.१६॥

अथर्ववेद » काण्ड:10» सूक्त:1» पर्यायः:0» मन्त्र:16


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा के कर्तव्य दण्ड का उपदेश।

पदार्थान्वयभाषाः - (पराक्) आगे की ओर (ते) तेरे लिये (ज्योतिः) ज्योति [अग्नि आदि प्रकाश] है, (अर्वाक्) इस ओर (ते) तेरे लिये (अपथम्) मार्ग नहीं है, (अस्मत्) हम से (अन्यत्र) दूसरे स्थान में [अपने] (अयना) मार्गों को (कृणुष्व) कर। (परेण) दूसरे [मार्ग] से (नवतिम्) नब्बे [अर्थात् अनेक] (दुर्गाः) बड़ी कठिन, (नाव्याः) नावों से उतरने योग्य (स्रोत्याः) नदियों को (अति) पार करके (इहि) जा, [हमको] (मा क्षणिष्ठाः) मत घायल कर, (परा इहि) हट जा ॥१६॥
भावार्थभाषाः - चतुर सेनापति उचित व्यूहरचना से शत्रुसेना को आग्नेय आदि अस्त्र-शस्त्रों द्वारा आगे-पीछे से रोक दे और अपने बचाने के लिये पार्श्व मार्ग से उसे निकल जाने दे ॥१६॥
टिप्पणी: १६−(पराक्) अभिमुखम् (ते) तुभ्यम् (ज्योतिः) प्रकाशः (अपथम्) पथो विभाषा। पा० ५।४।७२। नञ्+पथिन्-अ प्रत्ययः। अपथं नपुंसकम्। पा० २।४।३०। इति नपुंसकम्। मार्गाभावः। कुमार्गः (ते) तुभ्यम् (अर्वाक्) अवरदेशे (अन्यत्र) (अस्मत्) (अयना) मार्गान् (कृणुष्व) कुरु (परेण) यथा (इहि) गच्छ (नवतिम्) बह्वीः-इत्यर्थः (नाव्याः) अ० ८।५।९। नौभिस्तार्याः (अति) अतीत्य (दुर्गाः) दुर्गमनीयाः (स्रोत्याः) अ० १।३२।३। जलप्रवाहाः (मा क्षणिष्ठाः) क्षणु हिंसायाम्−लुङ्। मा हिंसीः (परा इहि) दूरं गच्छ ॥