वांछित मन्त्र चुनें

ये दे॑वा दि॒वि ष्ठ ये पृ॑थि॒व्यां ये अ॒न्तरि॑क्ष॒ ओष॑धीषु प॒शुष्व॒प्स्वन्तः। ते कृ॑णुत ज॒रस॒मायु॑र॒स्मै श॒तम॒न्यान्परि॑ वृणक्तु मृ॒त्यून् ॥

मन्त्र उच्चारण
पद पाठ

ये । देवा: । दिवि । स्थ । ये । पृथिव्याम् । ये । अन्तरिक्षे । ओषधीषु । पशुषु । अप्ऽसु । अन्त: । ते । कृणुत । जरसम् । आयु: । अस्मै । शतम् । अन्यान् । परि । वृणक्तु । मृत्यून् ॥

अथर्ववेद » काण्ड:1» सूक्त:30» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजतिलक-यज्ञ के उपदेश।

पदार्थान्वयभाषाः - (देवाः) हे विद्वान् महात्माओ ! (ये) जो तुम (दिवि) सूर्यलोक में, (ये) जो (पृथिव्याम्) पृथिवी में, (ये) जो (अन्तरिक्षे) आकाश वा मध्यलोक में, (ओषधिषु) ओषधियों में, (पशुषु) सब जीवों में और (अप्सु) व्यापक सूक्ष्म तन्मात्राओं वा जल में (अन्तः) भीतर (स्थ) वर्तमान हो। (ते) वह तुम (अस्मै) इस पुरुष के लिये (जरसम्) कीर्तियुक्त (आयुः) जीवन (कृणुत) करो, [यह पुरुष] (अन्यान्) दूसरे प्रकार के (शतम्) सौ (मृत्यून्) मृत्युओं को (परि वृणक्तु) हटावे ॥३॥
भावार्थभाषाः - जो विद्वान् सूर्यविद्या, भूमिविद्या, वायुविद्या, ओषधि अर्थात् अन्न, वृक्ष, जड़ी-बूटी आदि की विद्या, पशु अर्थात् सब जीवों की पालनविद्या और जलविद्या वा सूक्ष्मतन्मात्राओं की विद्या में निपुण हैं, उनके सत्सङ्ग और उनके कर्मों के विचार से शिक्षा ग्रहण करके और पदार्थों के गुण, उपकार और सेवन को यथार्थ समझ कर मनुष्य अपना सब जीवन शुभ कर्मों में व्यतीत करें और दुराचरणों में अपने जन्म को न गमाकर सुफल करें ॥३॥
टिप्पणी: टिप्पणी−(पशु) शब्द जीववाची है, देखो अथर्व० २।३४।१। य ईशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त यो द्वि॒पदा॑म्। जो पशुपति चौपाये और दोपाये पशुओं [अर्थात् जीवों] का राजा है। (अप्सु) व्यापक सूक्ष्मतन्मात्राओं में। देखो श्रीमद्दयानन्दभाष्य, यजुर्वेद ३७।२५ और २६ ॥ ३−देवाः। हे दिव्यगुणाः। दिव्यगुणयुक्ता विद्वांसः। दिवि। दिवु क्रीडाविजिगीषाकान्तिगत्यादिषु−क्विप्। प्रकाशे सूर्यसमानलोके। स्थ। अस भुवि लट्। भवथ, वर्तध्वे। पृथिव्याम्। १।२।१। विस्तृतायां प्रख्यातायां वा भूमौ। अन्तरिक्षे। अन्तः सूर्यपृथिव्योर्मध्ये ईक्ष्यते। अन्तर्+ईक्ष दर्शने-कर्मणि घञ्। यद्वा। अन्तर्मध्ये ऋक्षाणि नक्षत्राणि यस्य तत् अन्तरिक्षम्। पृषोदरादित्वाद् ईकारस्य ह्रस्वः, ऋकारस्य इकारः। अन्तरिक्षं कस्मादन्तरा क्षान्तं भवत्यन्तरेमे इति वा शरीरेष्वन्तरक्षयमिति वा−इति भगवान् यास्कः, निरु० २।१०। सर्वमध्ये दृश्यमाने। आकाशे। ओषधीषु। १।२३।१। ओषधि-ङीप् ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः। इति मनुः, १।४६ ॥ इति कदलीव्रीहियवफलधान्यादिषु पशुषु। अर्ज्जिदृशिकम्यमिपंसि०। उ० १।२७। इति दृशिर् प्रेक्षणे−कु, पश्यादेशः। पश्यन्ति दृश्यन्ते वा ते पशवः। प्राणिमात्रेषु, सर्वजीवेषु। अप्सु। १।४।३। आप्लृ−क्विप्। व्यापिकासु सूक्ष्मतन्मात्रासु। यथा श्रीमद्दयानन्दभाष्ये यजुः। ३७।२५, २६। जलेषु वा। अन्तः। मध्ये। ते। सर्वे देवा यूयम्। कृणुत। कुरुत। जरसम्। म० २। जरस् स्तुतिः। अर्शआदिभ्योऽच्। पा० ५।२।१२७। इति मत्वर्थे अच्। स्तुतियुक्तम्। प्रशंसनीयम्। आयुः। एतेर्णिच्च। उ० २।११८। इति इण् गतौ−उसि। ईयते प्राप्यते यत्तद् आयुः। जीवनम्, जीवितकालः। अस्मै। आत्मने, मह्यम्। शतम्। अपरिमितान्। अन्यान्। स्तुत्यजीवनाद् भिन्नान् मृत्यून्। परि+वृणक्तु। वृजी वर्जने−लोट्। अयम् उपासकः परिवर्जयतु। मृत्यून्। भुजिमृङ्भ्यां युक्त्युकौ। उ० ३।२१। इति मृङ् प्राणत्यागे−त्युक्। प्राणवियोगान्, मरणानि। अत्र पश्यत अ० २।२८।१। तथा ८।२।२७ ॥